हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Baneshwara Kavacha Sahita Shiva Stavaraja – श्री शिव स्तवराजः (बाणेश्वर कवच सहित)
(ब्रह्मवैवर्त पुराणान्तर्गतम्)
ओं नमो महादेवाय ।
[– कवचं –]
बाणासुर उवाच ।
महेश्वर महाभाग कवचं यत्प्रकाशितम् ।
संसारपावनं नाम कृपया कथय प्रभो ॥ ४३ ॥
महेश्वर उवाच ।
शृणु वक्ष्यामि हे वत्स कवचं परमाद्भुतम् ।
अहं तुभ्यं प्रदास्यामि गोपनीयं सुदुर्लभम् ॥ ४४ ॥
पुरा दुर्वाससे दत्तं त्रैलोक्यविजयाय च ।
ममैवेदं च कवचं भक्त्या यो धारयेत्सुधीः ॥ ४५ ॥
जेतुं शक्नोति त्रैलोक्यं भगवन्नवलीलया ।
संसारपावनस्यास्य कवचस्य प्रजापतिः ॥ ४६ ॥
ऋषिश्छन्दश्च गायत्री देवोऽहं च महेश्वरः ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ ४७ ॥
पञ्चलक्षजपेनैव सिद्धिदं कवचं भवेत् ।
यो भवेत्सिद्धकवचो मम तुल्यो भवेद्भुवि ।
तेजसा सिद्धियोगेन तपसा विक्रमेण च ॥ ४८ ॥
शम्भुर्मे मस्तकं पातु मुखं पातु महेश्वरः ।
दन्तपङ्क्तिं नीलकण्ठोऽप्यधरोष्ठं हरः स्वयम् ॥ ४९ ॥
कण्ठं पातु चन्द्रचूडः स्कन्धौ वृषभवाहनः ।
वक्षःस्थलं नीलकण्ठः पातु पृष्ठं दिगम्बरः ॥ ५० ॥
सर्वाङ्गं पातु विश्वेशः सर्वदिक्षु च सर्वदा ।
स्वप्ने जागरणे चैव स्थाणुर्मे पातु सन्ततम् ॥ ५१ ॥
इति ते कथितं बाण कवचं परमाद्भुतम् ।
यस्मै कस्मै न दातव्यं गोपनीयं प्रयत्नतः ॥ ५२ ॥
यत्फलं सर्वतीर्थानां स्नानेन लभते नरः ।
तत्फलं लभते नूनं कवचस्यैव धारणात् ॥ ५३ ॥
इदं कवचमज्ञात्वा भजेन्मां यः सुमन्दधीः ।
शतलक्षप्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥ ५४ ॥
सौतिरुवाच ।
इदं च कवचं प्रोक्तं स्तोत्रम् च शृणु शौनक ।
मन्त्रराजः कल्पतरुर्वसिष्ठो दत्तवान्पुरा ॥ ५५ ॥
ओं नमः शिवाय ।
[– स्तवराजः –]
बाणासुर उवाच ।
वन्दे सुराणां सारं च सुरेशं नीललोहितम् ।
योगीश्वरं योगबीजं योगिनां च गुरोर्गुरुम् ॥ ५६ ॥
ज्ञानानन्दं ज्ञानरूपं ज्ञानबीजं सनातनम् ।
तपसां फलदातारं दातारं सर्वसम्पदाम् ॥ ५७ ॥
तपोरूपं तपोबीजं तपोधनधनं वरम् ।
वरं वरेण्यं वरदमीड्यं सिद्धगणैर्वरैः ॥ ५८ ॥
कारणं भुक्तिमुक्तीनां नरकार्णवतारणम् ।
आशुतोषं प्रसन्नास्यं करुणामयसागरम् ॥ ५९ ॥
हिमचन्दन कुन्देन्दु कुमुदांभोज सन्निभम् ।
ब्रह्मज्योतिः स्वरूपं च भक्तानुग्रहविग्रहम् ॥ ६० ॥
विषयाणां विभेदेन बिभ्रतं बहुरूपकम् ।
जलरूपमग्निरूप-माकाशरूपमीश्वरम् ॥ ६१ ॥
वायुरूपं चन्द्ररूपं सूर्यरूपं महत्प्रभुं ।
आत्मनः स्वपदं दातुं समर्थमवलीलया ॥ ६२ ॥
भक्तजीवनमीशं च भक्तानुग्रहकारकम् ।
वेदा न शक्ता यं स्तोतुं किमहं स्तौमि तं प्रभुम् ॥ ६३ ॥
अपरिच्छिन्नमीशान-महोवाङ्मनसोः परम् ।
व्याघ्रचर्माम्बरधरं वृषभस्थं दिगम्बरम् ।
त्रिशूलपट्टिशधरं सस्मितं चन्द्रशेखरम् ॥ ६४ ॥
इत्युक्त्वा स्तवराजेन नित्यं बाणः सुसम्यतः ।
प्राणमच्छङ्करं भक्त्या दुर्वासाश्च मुनीश्वरः ॥ ६५ ॥
इदं दत्तं वसिष्ठेन गन्धर्वाय पुरा मुने ।
कथितं च महास्तोत्रम् शूलिनः परमाद्भुतम् ॥ ६६ ॥
इदं स्तोत्रम् महापुण्यं पठेद्भक्त्या च यो नरः ।
स्नानस्य सर्वतीर्थानां फलमाप्नोति निश्चितम् ॥ ६७ ॥
अपुत्रो लभते पुत्रं वर्षमेकं शृणोति यः ।
सम्यतश्च हविष्याशी प्रणम्य शङ्करं गुरुम् ॥ ६८ ॥
गलत्कुष्ठी महाशूली वर्षमेकं शृणोति यः ।
अवश्यं मुच्यते रोगाद्व्यासवाक्यमिति श्रुतम् ॥ ६९ ॥
कारागारेऽपि बद्धो यो नैव प्राप्नोति निर्वृतिम् ।
स्तोत्रम् श्रुत्वा मासमेकं मुच्यते बन्धनाद्धृवम् ॥ ७० ॥
भ्रष्टराज्यो लभेद्राज्यं भक्त्यामासं शृणोति यः ।
मासं श्रुत्वा सम्यतश्च लभेद्भ्रष्टधनो धनम् ॥ ७१ ॥
यक्ष्मग्रस्तो वर्षमेकमास्तिको यः शृणोति चेत् ।
निश्चितं मुच्यते रोगाच्छङ्करस्य प्रसादतः ॥ ७२ ॥
यः शृणोति सदा भक्त्या स्तवराजमिमं द्विजः ।
तस्यासाध्यं त्रिभुवने नास्ति किञ्चिच्च शौनक ॥ ७३ ॥
कदाचिद्बन्धुविच्छेदो न भवेत्तस्य भारते ।
अचलं परमैश्वर्यं लभते नात्र सम्शयः ॥ ७४ ॥
सुसम्यतोऽति भक्त्या च मासमेकं शृणोति यः ।
अभार्यो लभते भार्यां सुविनीतां सतीं वराम् ॥ ७५ ॥
महामूर्खश्च दुर्मेधा मासमेकं शृणोति यः ।
बुद्धिं विद्यां च लभते गुरूपदेशमात्रतः ॥ ७६ ॥
कर्मदुःखी दरिद्रश्च मासं भक्त्या शृणोति यः ।
ध्रुवं वित्तं भवेत्तस्य शङ्करस्य प्रसादतः ॥ ७७ ॥
इह लोके सुखं भुक्त्वा कृत्वाकीर्तिं सुदुर्लभाम् ।
नाना प्रकार धर्मं च यात्यन्ते शङ्करालयम् ॥ ७८ ॥
पार्षदप्रवरो भूत्वा सेवते तत्र शङ्करम् ।
यः शृणोति त्रिसन्ध्यं च नित्यं स्तोत्रमनुत्तमम् ॥ ७९ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे शङ्करस्तोत्र कथनं नाम एकोनविम्शोध्यायः ॥
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright 2019-2025 © sanatanadharm.com All Rights Reserved . Made in India.